Sukta 10.69
दीर्घतन्तुर्बृहदुक्षायमग्निः सहस्रस्तरीः शतनीथ ऋभ्वा । द्युमान्द्युमत्सु नृभिर्मृज्यमानः सुमित्रेषु दीदयो देवयत्सु ॥
दी॒र्घत॑न्तुर्बृ॒हदु॑क्षा॒यम॒ग्निः स॒हस्र॑स्तरीः श॒तनी॑थ॒ ऋभ्वा॑ । द्यु॒मान्द्यु॒मत्सु॒ नृभि॑र्मृ॒ज्यमा॑नः सुमि॒त्रेषु॑ दीदयो देव॒यत्सु॑ ॥
dīrghátantūr bṛhádúkṣāyám agníḥ sahásrastārīḥ śatánītha ṛ́bhvā | dyumān dyumátsu nṛ́bhir mṛ́jyamānaḥ sumitréṣu dīdayo deváyatsu ||
This Agni, long-threaded in his workings, great in his outpouring, crossing a thousand barriers, founding a hundred paths, the skilled one—radiant among the radiant—being purified by the strong sons of men, shines in the communities of good friendship that seek the Divine.
दी॒र्घऽत॑न्तुः । बृ॒हत्ऽउ॑क्षा । अ॒यम् । अ॒ग्निः । स॒हस्र॑ऽस्तरीः । श॒तऽनी॑थः । ऋभ्वा॑ । द्यु॒ऽमान् । द्यु॒मत्ऽसु॑ । नृऽभिः॑ । मृ॒ज्यमा॑नः । सु॒ऽमि॒त्रेषु॑ । दी॒द॒यः॒ । दे॒व॒यत्ऽसु॑ ॥दीर्घतन्तुः । बृहत्उक्षा । अयम् । अग्निः । सहस्रस्तरीः । शतनीथः । ऋभ्वा । द्युमान् । द्युमत्सु । नृभिः । मृज्यमानः । सुमित्रेषु । दीदयः । देवयत्सु ॥dīrgha-tantuḥ | bṛhat-ukṣā | ayam | agniḥ | sahasra-starīḥ | śata-nīthaḥ | ṛbhvā | dyu-mān | dyumat-su | nṛ-bhiḥ | mṛjyamānaḥ | su-mitreṣu | dīdayaḥ | devayat-su