Sukta 10.69
समज्र्या पर्वत्या वसूनि दासा वृत्राण्यार्या जिगेथ । शूर इव धृष्णुश्च्यवनो जनानां त्वमग्ने पृतनायूँरभि ष्याः ॥
सम॒ज्र्या॑ पर्व॒त्या॒३॒॑ वसू॑नि॒ दासा॑ वृ॒त्राण्यार्या॑ जिगेथ । शूर॑ इव धृ॒ष्णुश्च्यव॑नो॒ जना॑नां॒ त्वम॑ग्ने पृतना॒यूँर॒भि ष्या॑: ॥
sám ajryā́ parvatyā́ vasū́ni dā́sā vṛtrā́ṇy ā́ryā jigetha | śū́ra iva dhṛṣṇúś cyávanā jánānāṃ tvám agne pṛtanāyū́ṃr abhí syāḥ ||
With the swift-moving and mountain-strong force you have won the treasures; the Arya has conquered the obstructing powers of the Dasa. Like a hero, vehement and unshaken among men, be thou, O Agni, the overcomer of the battle-hosts.
सम् । अ॒ज्र्या॑ । प॒र्व॒त्या॑ । वसू॑नि । दासा॑ । वृ॒त्राणि॑ । आर्या॑ । जि॒गे॒थ॒ । शूरः॑ऽइव । घृ॒ष्णुः । च्यव॑नः । जना॑नाम् । त्वम् । अ॒ग्ने॒ । पृ॒त॒ना॒ऽयून् । अ॒भि । स्याः॒ ॥सम् । अज्र्या । पर्वत्या । वसूनि । दासा । वृत्राणि । आर्या । जिगेथ । शूरःइव । घृष्णुः । च्यवनः । जनानाम् । त्वम् । अग्ने । पृतनायून् । अभि । स्याः ॥sam | ajryā | parvatyā | vasūni | dāsā | vṛtrāṇi | āryā | jigetha | śūraḥ-iva | ghṛṣṇuḥ | cyavanaḥ | janānām | tvam | agne | pṛtanāyūn | abhi | syāḥ