Sukta 10.69
भवा द्युम्नी वाध्र्यश्वोत गोपा मा त्वा तारीदभिमातिर्जनानाम् । शूर इव धृष्णुश्च्यवनः सुमित्रः प्र नु वोचं वाध्र्यश्वस्य नाम ॥
भवा॑ द्यु॒म्नी वा॑ध्र्यश्वो॒त गो॒पा मा त्वा॑ तारीद॒भिमा॑ति॒र्जना॑नाम् । शूर॑ इव धृ॒ष्णुश्च्यव॑नः सुमि॒त्रः प्र नु वो॑चं॒ वाध्र्य॑श्वस्य॒ नाम॑ ॥
bhávā dyumnī vādhryaśvóta gopā́ mā tvā tārīd abhimātír janānām | śū́ra iva dhṛṣṇúś cyávanāḥ sumitrás prá nu vócaṃ vādhryaśvásya nā́ma ||
Become luminous, O Vādhryaśva, and be a guardian of the Rays; let not the hostile will of men overtake you. Like a hero, forceful and steadfast, a good friend to the right-minded, I now proclaim the name and soul-sign of Vādhryaśva.
भव॑ । द्यु॒म्नी । वा॒ध्रि॒ऽअ॒श्व॒ । उ॒त । गो॒पाः । मा । त्वा॒ । ता॒री॒त् । अ॒भिऽमा॑तिः । जना॑नाम् । शूरः॑ऽइव । घृ॒ष्णुः । च्यव॑नः । सु॒ऽमि॒त्रः । प्र । नु । वो॒च॒म् । वाध्रि॑ऽअश्वस्य । नाम॑ ॥भव । द्युम्नी । वाध्रिअश्व । उत । गोपाः । मा । त्वा । तारीत् । अभिमातिः । जनानाम् । शूरःइव । घृष्णुः । च्यवनः । सुमित्रः । प्र । नु । वोचम् । वाध्रिअश्वस्य । नाम ॥bhava | dyumnī | vādhri-aśva | uta | gopāḥ | mā | tvā | tārīt | abhi-mātiḥ | janānām | śūraḥ-iva | ghṛṣṇuḥ | cyavanaḥ | su-mitraḥ | pra | nu | vocam | vādhri-aśvasya | nāma