Sukta 10.69
यं त्वा पूर्वमीळितो वध्र्यश्वः समीधे अग्ने स इदं जुषस्व । स नः स्तिपा उत भवा तनूपा दात्रं रक्षस्व यदिदं ते अस्मे ॥
यं त्वा॒ पूर्व॑मीळि॒तो व॑ध्र्य॒श्वः स॑मी॒धे अ॑ग्ने॒ स इ॒दं जु॑षस्व । स न॑: स्ति॒पा उ॒त भ॑वा तनू॒पा दा॒त्रं र॑क्षस्व॒ यदि॒दं ते॑ अ॒स्मे ॥
yáṃ tvā pū́rvam īḷitó vadhry-aśváḥ sam-ī́dhe agne sá idáṃ juṣasva | sá naḥ stí-pā utá bhavā tanū-pā dā́traṃ rakṣasva yád idáṃ te asmè ||
You whom Vadhryaśva formerly praised and kindled, O Agni—accept this too. Be for us a firm protector, a guardian of our embodied being; guard the gift, this offering that is yours among us.
यम् । त्वा॒ । पूर्व॑म् । ई॒ळि॒तः । व॒ध्रि॒ऽअ॒श्वः । स॒म्ऽई॒धे । अ॒ग्ने॒ । सः । इ॒दम् । जु॒ष॒स्व॒ । सः । नः॒ । स्ति॒ऽपाः । उ॒त । भ॒व॒ । त॒नू॒ऽपाः । दा॒त्रम् । र॒क्ष॒स्व॒ । यत् । इ॒दम् । ते॒ । अ॒स्मे इति॑ ॥यम् । त्वा । पूर्वम् । ईळितः । वध्रिअश्वः । सम्ईधे । अग्ने । सः । इदम् । जुषस्व । सः । नः । स्तिपाः । उत । भव । तनूपाः । दात्रम् । रक्षस्व । यत् । इदम् । ते । अस्मे इति ॥yam | tvā | pūrvam | īḷitaḥ | vadhri-aśvaḥ | sam-īdhe | agne | saḥ | idam | juṣasva | saḥ | naḥ | sti-pāḥ | uta | bhava | tanū-pāḥ | dātram | rakṣasva | yat | idam | te | asme iti