Sukta 10.69
यत्ते मनुर्यदनीकं सुमित्रः समीधे अग्ने तदिदं नवीयः । स रेवच्छोच स गिरो जुषस्व स वाजं दर्षि स इह श्रवो धाः ॥
यत्ते॒ मनु॒र्यदनी॑कं सुमि॒त्रः स॑मी॒धे अ॑ग्ने॒ तदि॒दं नवी॑यः । स रे॒वच्छो॑च॒ स गिरो॑ जुषस्व॒ स वाजं॑ दर्षि॒ स इ॒ह श्रवो॑ धाः ॥
yát te mánur yád anī́kaṃ su-mitrás sam-ī́dhe agne tád idáṃ navī́yaḥ | sá revác choca sá gíro juṣasva sá vā́jaṃ darṣi sá ihá śrávo dhāḥ ||
What Manu once kindled for you, and what Sūmitra kindled—O Agni—this too is made new. Shine with plenitude; accept our words; grant the vāja, the fullness of force, and here establish fame that endures.
यत् । ते॒ । मनुः॑ । यत् । अनी॑कम् । सु॒ऽमि॒त्रः । स॒म्ऽई॒धे । अ॒ग्ने॒ । तत् । इ॒दम् । नवी॑यः । सः । रे॒वत् । शो॒च॒ । सः । गिरः॑ । जु॒ष॒स्व॒ । सः । वाज॑म् । द॒र्षि॒ । सः । इ॒ह । श्रवः॑ । धाः॒ ॥यत् । ते । मनुः । यत् । अनीकम् । सुमित्रः । सम्ईधे । अग्ने । तत् । इदम् । नवीयः । सः । रेवत् । शोच । सः । गिरः । जुषस्व । सः । वाजम् । दर्षि । सः । इह । श्रवः । धाः ॥yat | te | manuḥ | yat | anīkam | su-mitraḥ | sam-īdhe | agne | tat | idam | navīyaḥ | saḥ | revat | śoca | saḥ | giraḥ | juṣasva | saḥ | vājam | darṣi | saḥ | iha | śravaḥ | dhāḥ