Sukta 10.69
शश्वदग्निर्वध्र्यश्वस्य शत्रून्नृभिर्जिगाय सुतसोमवद्भिः । समनं चिददहश्चित्रभानोऽव व्राधन्तमभिनद्वृधश्चित् ॥
शश्व॑द॒ग्निर्व॑ध्र्य॒श्वस्य॒ शत्रू॒न्नृभि॑र्जिगाय सु॒तसो॑मवद्भिः । सम॑नं चिददहश्चित्रभा॒नोऽव॒ व्राध॑न्तमभिनद्वृ॒धश्चि॑त् ॥
śáśvad agnír vadhryaśvásya śátrūn nṛ́bhir jigāya sutasómavadbhiḥ | sámanaṃ cid adahaś citrabhāno ’vá vrā́dhantam abhinad vṛ́dhaś cit ||
Ever does Agni win for Vādhryaśva the foes, with men who are rich in the pressed Soma. O flame of varied radiance, thou hast burned even the fixed stronghold; thou hast struck down the opposer, even though he was grown and mighty.
शश्व॑त् । अ॒ग्निः । व॒ध्रि॒ऽअ॒श्वस्य॑ । शत्रू॑न् । नृऽभिः॑ । जि॒गा॒य॒ । सु॒तसो॑मवत्ऽभिः । सम॑नम् । चि॒त् । अ॒द॒हः॒ । चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो । अव॑ । व्राध॑न्तम् । अ॒भि॒न॒त् । वृ॒धः । चि॒त् ॥शश्वत् । अग्निः । वध्रिअश्वस्य । शत्रून् । नृभिः । जिगाय । सुतसोमवत्भिः । समनम् । चित् । अदहः । चित्रभानो इति चित्रभानो । अव । व्राधन्तम् । अभिनत् । वृधः । चित् ॥śaśvat | agniḥ | vadhri-aśvasya | śatrūn | nṛ-bhiḥ | jigāya | sutasomavat-bhiḥ | samanam | cit | adahaḥ | citrabhāno iticitra-bhāno | ava | vrādhantam | abhinat | vṛdhaḥ | cit