Sukta 10.69
अयमग्निर्वध्र्यश्वस्य वृत्रहा सनकात्प्रेद्धो नमसोपवाक्यः । स नो अजामीँरुत वा विजामीनभि तिष्ठ शर्धतो वाध्र्यश्व ॥
अ॒यम॒ग्निर्व॑ध्र्य॒श्वस्य॑ वृत्र॒हा स॑न॒कात्प्रेद्धो॒ नम॑सोपवा॒क्य॑: । स नो॒ अजा॑मीँरु॒त वा॒ विजा॑मीन॒भि ति॑ष्ठ॒ शर्ध॑तो वाध्र्यश्व ॥
ayám agnír vadhryaśvásya vṛtrahā́ sanakā́t préddho námasopavā́kyaḥ | sá no ajā́mīṃr utá vā́ vijā́mīn abhí tíṣṭha śárdhato vādhryaśva ||
This Agni of Vādhryaśva is the slayer of the Enveloper; from of old he is kindled, invoked by obeisance and inward call. Let him stand over us against the near and the far adversaries, against the pressing hordes, O Vādhryaśva.
अ॒यम् । अ॒ग्निः । व॒ध्रि॒ऽअ॒श्वस्य॑ । वृ॒त्र॒ऽहा । स॒न॒कात् । प्रऽइ॑द्धः । नम॑सा । उ॒प॒ऽवा॒क्यः॑ । सः । नः॒ । अजा॑मीन् । उ॒त । वा॒ । विऽजा॑मीन् । अ॒भि । ति॒ष्ठ॒ । शर्ध॑तः । वा॒ध्रि॒ऽअ॒श्व॒ ॥अयम् । अग्निः । वध्रिअश्वस्य । वृत्रहा । सनकात् । प्रइद्धः । नमसा । उपवाक्यः । सः । नः । अजामीन् । उत । वा । विजामीन् । अभि । तिष्ठ । शर्धतः । वाध्रिअश्व ॥ayam | agniḥ | vadhri-aśvasya | vṛtra-hā | sanakāt | pra-iddhaḥ | namasā | upa-vākyaḥ | saḥ | naḥ | ajāmīn | uta | vā | vi-jāmīn | abhi | tiṣṭha | śardhataḥ | vādhri-aśva