Sukta 10.68
सोषामविन्दत्स स्वः सो अग्निं सो अर्केण वि बबाधे तमांसि । बृहस्पतिर्गोवपुषो वलस्य निर्मज्जानं न पर्वणो जभार ॥
सोषाम॑विन्द॒त्स स्व१॒॑: सो अ॒ग्निं सो अ॒र्केण॒ वि ब॑बाधे॒ तमां॑सि । बृह॒स्पति॒र्गोव॑पुषो व॒लस्य॒ निर्म॒ज्जानं॒ न पर्व॑णो जभार ॥
sóṣām avindat sá svàr sá agníṃ sá arkéṇa ví babādhe támāṃsi | bṛ́haspátir gó-vapuṣo valásya nír-majjānaṃ ná párvaṇo jabhāra ||
He found the Dawn; he found the luminous Heaven; he found the Fire. With the hymn of illumination he shattered the darknesses. Bṛhaspati drew out from Vala—whose body is made of ‘cows’—as one draws marrow from a joint.
सः । उ॒षाम् । अ॒वि॒न्द॒त् । सः । स्वरिति॑ स्वः॑ । सः । अ॒ग्निम् । सः । अ॒र्केण॑ । वि । ब॒बा॒धे॒ । तमां॑सि । बृह॒स्पतिः॑ । गोऽव॑पुषः । व॒लस्य॑ । निः । म॒ज्जान॑म् । न । पर्व॑णः । ज॒भा॒र॒ ॥सः । उषाम् । अविन्दत् । सः । स्वरिति स्वः । सः । अग्निम् । सः । अर्केण । वि । बबाधे । तमांसि । बृहस्पतिः । गोवपुषः । वलस्य । निः । मज्जानम् । न । पर्वणः । जभार ॥saḥ | uṣām | avindat | saḥ | svar iti svaḥ | saḥ | agnim | saḥ | arkeṇa | vi | babādhe | tamāṃsi | bṛhaspatiḥ | go--vapuṣaḥ | valasya | niḥ | majjānam | na | parvaṇaḥ | jabhāra