Sukta 10.68
अश्नापिनद्धं मधु पर्यपश्यन्मत्स्यं न दीन उदनि क्षियन्तम् । निष्टज्जभार चमसं न वृक्षाद्बृहस्पतिर्विरवेणा विकृत्य ॥
अश्नापि॑नद्धं॒ मधु॒ पर्य॑पश्य॒न्मत्स्यं॒ न दी॒न उ॒दनि॑ क्षि॒यन्त॑म् । निष्टज्ज॑भार चम॒सं न वृ॒क्षाद्बृह॒स्पति॑र्विर॒वेणा॑ वि॒कृत्य॑ ॥
aśnā́pinaddhaṃ mádhu páry apaśyan mátsyaṃ ná dīné udáni kṣiyántam | níṣ ṭaj-jabhāra cám asaṃ ná vṛkṣā́d bṛ́haspátir ví-ravéṇa ví-kṛtya ||
He beheld the honey sealed within the stone, like a fish dwindling in scant waters. Then Bṛhaspati tore it out—like a cup from a tree—by a far-resounding cry that breaks the form.
अश्ना॑ । अपि॑ऽनद्धम् । मधु॑ । परि॑ । अ॒प॒श्य॒त् । मत्स्य॑म् । न । दी॒ने । उ॒दनि॑ । क्षि॒यन्त॑म् । निः । तत् । ज॒भा॒र॒ । च॒म॒सम् । न । वृ॒क्षात् । बृह॒स्पतिः॑ । वि॒ऽर॒वेण॑ । वि॒ऽकृत्य॑ ॥अश्ना । अपिनद्धम् । मधु । परि । अपश्यत् । मत्स्यम् । न । दीने । उदनि । क्षियन्तम् । निः । तत् । जभार । चमसम् । न । वृक्षात् । बृहस्पतिः । विरवेण । विकृत्य ॥aśnā | api-naddham | madhu | pari | apaśyat | matsyam | na | dīne | udani | kṣiyantam | niḥ | tat | jabhāra | camasam | na | vṛkṣāt | bṛhaspatiḥ | vi-raveṇa | vi-kṛtya