Sukta 10.68
हिमेव पर्णा मुषिता वनानि बृहस्पतिनाकृपयद्वलो गाः । अनानुकृत्यमपुनश्चकार यात्सूर्यामासा मिथ उच्चरातः ॥
हि॒मेव॑ प॒र्णा मु॑षि॒ता वना॑नि॒ बृह॒स्पति॑नाकृपयद्व॒लो गाः । अ॒ना॒नु॒कृ॒त्यम॑पु॒नश्च॑कार॒ यात्सूर्या॒मासा॑ मि॒थ उ॒च्चरा॑तः ॥
himéva párṇā muṣitā́ vánāni bṛ́haspátinā́kṛpayad való gā́ḥ | anā́nu-kṛtyam ápunaś cakāra yā́t sū́ryā-mā́sā mithá úc-carātaḥ ||
As leaves are stripped by winter, so Vala was made to yield the luminous herds by Bṛhaspati. He did what cannot be imitated, making anew the right movement by which Sun and Moon go forth in their alternating ascent.
हि॒माऽइ॑व । प॒र्णा । मु॒षि॒ता । वना॑नि । बृह॒स्पति॑ना । अ॒कृ॒प॒य॒त् । व॒लः । गाः । अ॒न॒नु॒ऽकृ॒त्यम् । अ॒पु॒नरिति॑ । च॒का॒र॒ । यात् । सूर्या॒मासा॑ । मि॒थः । उ॒त्ऽचरा॑तः ॥हिमाइव । पर्णा । मुषिता । वनानि । बृहस्पतिना । अकृपयत् । वलः । गाः । अननुकृत्यम् । अपुनरिति । चकार । यात् । सूर्यामासा । मिथः । उत्चरातः ॥himāiva | parṇā | muṣitā | vanāni | bṛhaspatinā | akṛpayat | valaḥ | gāḥ | ananu-kṛtyam | apunariti | cakāra | yāt | sūryāmāsā | mithaḥ | ut-carātaḥ