Sukta 10.68
बृहस्पतिरमत हि त्यदासां नाम स्वरीणां सदने गुहा यत् । आण्डेव भित्त्वा शकुनस्य गर्भमुदुस्रियाः पर्वतस्य त्मनाजत् ॥
बृह॒स्पति॒रम॑त॒ हि त्यदा॑सां॒ नाम॑ स्व॒रीणां॒ सद॑ने॒ गुहा॒ यत् । आ॒ण्डेव॑ भि॒त्त्वा श॑कु॒नस्य॒ गर्भ॒मुदु॒स्रिया॒: पर्व॑तस्य॒ त्मना॑जत् ॥
bṛ́haspátir ámata hí tyád āsā́m nā́ma svarī́ṇāṃ sádane gúhā yát | āṇḍéva bhittvā́ śakunásya gárbham úd usríyāḥ párvatasya tmánā́jat ||
Bṛhaspati came to know that secret Name of the radiant powers, hidden in their inner seat within the cave. Breaking it open like an egg—the womb of the bird—he brought forth, by the mountain’s own force, the shining herds of Light.
बृह॒स्पतिः॑ । अम॑त । हि । त्यत् । आ॒सा॒म् । नाम॑ । स्व॒रीणा॑म् । सद॑ने । गुहा॑ । यत् । आ॒ण्डाऽइ॑व । भि॒त्त्वा । श॒कु॒नस्य॑ । गर्भ॑म् । उत् । उ॒स्रियाः॑ । पर्व॑तस्य । त्मना॑ । आ॒ज॒त् ॥बृहस्पतिः । अमत । हि । त्यत् । आसाम् । नाम । स्वरीणाम् । सदने । गुहा । यत् । आण्डाइव । भित्त्वा । शकुनस्य । गर्भम् । उत् । उस्रियाः । पर्वतस्य । त्मना । आजत् ॥bṛhaspatiḥ | amata | hi | tyat | āsām | nāma | svarīṇām | sadane | guhā | yat | āṇḍāiva | bhittvā | śakunasya | garbham | ut | usriyāḥ | parvatasya | tmanā | ājat