Sukta 10.68
यदा वलस्य पीयतो जसुं भेद्बृहस्पतिरग्नितपोभिरर्कैः । दद्भिर्न जिह्वा परिविष्टमाददाविर्निधीँरकृणोदुस्रियाणाम् ॥
य॒दा व॒लस्य॒ पीय॑तो॒ जसुं॒ भेद्बृह॒स्पति॑रग्नि॒तपो॑भिर॒र्कैः । द॒द्भिर्न जि॒ह्वा परि॑विष्ट॒माद॑दा॒विर्नि॒धीँर॑कृणोदु॒स्रिया॑णाम् ॥
yadā́ valásya pī́yataḥ jásuṃ bhed bṛ́haspátir agnitápobhir arkáiḥ | dád-bhir na jihvā́ pári-viṣṭam ā́dad āvír nidhī́ṃr akṛṇod usríyāṇām ||
When Brihaspati, with hymns that are tapas of fire, broke the greedy enclosure of Vala, then like a tongue taking the food set all around, he seized it; and he made manifest the hidden treasures of the shining ones.
य॒दा । व॒लस्य॑ । पीय॑तः । जसु॑म् । भेत् । बृह॒स्पतिः॑ । अ॒ग्नि॒तपः॑ऽभिः । अ॒र्कैः । द॒त्ऽभिः । न । जि॒ह्वा । परि॑ऽविष्टम् । आद॑त् । आ॒विः । नि॒धीन् । अ॒कृ॒णो॒त् । उ॒स्रिया॑णाम् ॥यदा । वलस्य । पीयतः । जसुम् । भेत् । बृहस्पतिः । अग्नितपःभिः । अर्कैः । दत्भिः । न । जिह्वा । परिविष्टम् । आदत् । आविः । निधीन् । अकृणोत् । उस्रियाणाम् ॥yadā | valasya | pīyataḥ | jasum | bhet | bṛhaspatiḥ | agnitapaḥ-bhiḥ | arkaiḥ | dat-bhiḥ | na | jihvā | pari-viṣṭam | ādat | āviḥ | nidhīn | akṛṇot | usriyāṇām