Sukta 10.68
अप ज्योतिषा तमो अन्तरिक्षादुद्नः शीपालमिव वात आजत् । बृहस्पतिरनुमृश्या वलस्याभ्रमिव वात आ चक्र आ गाः ॥
अप॒ ज्योति॑षा॒ तमो॑ अ॒न्तरि॑क्षादु॒द्नः शीपा॑लमिव॒ वात॑ आजत् । बृह॒स्पति॑रनु॒मृश्या॑ व॒लस्या॒भ्रमि॑व॒ वात॒ आ च॑क्र॒ आ गाः ॥
ápa jyótiṣā támo antárikṣād udnáḥ śīpā́lam iva vā́ta ā́jat | bṛ́haspátir anumṛ́śyā valásyā́bhram iva vā́ta ā́ cakra ā́ gā́ḥ ||
With light he drove away the darkness from the mid-world, as wind drives off a waterskin. Brihaspati, feeling out the cave of Vala, like wind shaping the cloud, fashioned the coming of the cows—he brought the rays forward.
अप॑ । ज्योति॑षा । तमः॑ । अ॒न्तरि॑क्षात् । उ॒द्नः । शीपा॑लम्ऽइव । वातः॑ । आ॒ज॒त् । बृह॒स्पतिः॑ । अ॒नु॒ऽमृश्य॑ । व॒लस्य॑ । अ॒भ्रम्ऽइ॑व । वातः॑ । आ । च॒क्रे॒ । आ । गाः ॥अप । ज्योतिषा । तमः । अन्तरिक्षात् । उद्नः । शीपालम्इव । वातः । आजत् । बृहस्पतिः । अनुमृश्य । वलस्य । अभ्रम्इव । वातः । आ । चक्रे । आ । गाः ॥apa | jyotiṣā | tamaḥ | antarikṣāt | udnaḥ | śīpālam-iva | vātaḥ | ājat | bṛhaspatiḥ | anu-mṛśya | valasya | abhram-iva | vātaḥ | ā | cakre | ā | gāḥ