Sukta 10.68
आप्रुषायन्मधुन ऋतस्य योनिमवक्षिपन्नर्क उल्कामिव द्योः । बृहस्पतिरुद्धरन्नश्मनो गा भूम्या उद्नेव वि त्वचं बिभेद ॥
आ॒प्रु॒षा॒यन्मधु॑न ऋ॒तस्य॒ योनि॑मवक्षि॒पन्न॒र्क उ॒ल्कामि॑व॒ द्योः । बृह॒स्पति॑रु॒द्धर॒न्नश्म॑नो॒ गा भूम्या॑ उ॒द्नेव॒ वि त्वचं॑ बिभेद ॥
āpruṣāyán mádhuna ṛtásya yónim avakṣipánn arka ulkā́m iva dyóḥ | bṛ́haspátir uddhárann áśmano gā́ bhū́myā udnéva ví tvácaṃ bibheda ||
He drenched the womb of Rita with honeyed sweetness; the hymn was cast down like a meteor from heaven. Brihaspati, lifting the cows out from the stone, split the skin of the earth as one breaks open a waterskin.
आ॒ऽप्रु॒षा॒यन् । मधु॑ना । ऋ॒तस्य॑ । योनि॑म् । अ॒व॒ऽक्षि॒पन् । अ॒र्कः । उ॒ल्काम्ऽइ॑व । द्योः । बृह॒स्पतिः॑ । उ॒द्धर॑न् । अश्म॑नः । गाः । भूम्याः॑ । उ॒द्नाऽइ॑व । वि । त्वच॑म् । बि॒भे॒द॒ ॥आप्रुषायन् । मधुना । ऋतस्य । योनिम् । अवक्षिपन् । अर्कः । उल्काम्इव । द्योः । बृहस्पतिः । उद्धरन् । अश्मनः । गाः । भूम्याः । उद्नाइव । वि । त्वचम् । बिभेद ॥āpruṣāyan | madhunā | ṛtasya | yonim | ava-kṣipan | arkaḥ | ulkām-iva | dyoḥ | bṛhaspatiḥ | uddharan | aśmanaḥ | gāḥ | bhūmyāḥ | udnāiva | vi | tvacam | bibheda