Sukta 10.68
साध्वर्या अतिथिनीरिषिरा स्पार्हाः सुवर्णा अनवद्यरूपाः । बृहस्पतिः पर्वतेभ्यो वितूर्या निर्गा ऊपे यवमिव स्थिविभ्यः ॥
सा॒ध्व॒र्या अ॑ति॒थिनी॑रिषि॒रा स्पा॒र्हाः सु॒वर्णा॑ अनव॒द्यरू॑पाः । बृह॒स्पति॒: पर्व॑तेभ्यो वि॒तूर्या॒ निर्गा ऊ॑पे॒ यव॑मिव स्थि॒विभ्य॑: ॥
sādhv-aryā́ atithínīr iṣirā́ spārhā́ḥ suvarṇā́ anavadyá-rūpāḥ | bṛ́haspátiḥ párvatebhyo vitū́rya nírgā ūpe yávam iva sthivíbhyāḥ ||
The noble ones, guests of the journey, swift and desirable, golden, of faultless form—Brihaspati, cleaving the mountains, brought the cows out, as grain is winnowed free from the husks.
सा॒धु॒ऽअ॒र्याः । अ॒ति॒थिनीः॑ । इ॒षि॒राः । स्पा॒र्हाः । सु॒ऽवर्णाः॑ । अ॒न॒व॒द्यऽरू॑पाः । बृह॒स्पतिः॑ । पर्व॑तेभ्यः । वि॒ऽतूर्य॑ । निः । गाः । ऊ॒पे॒ । यव॑म्ऽइव । स्थि॒विऽभ्यः॑ ॥साधुअर्याः । अतिथिनीः । इषिराः । स्पार्हाः । सुवर्णाः । अनवद्यरूपाः । बृहस्पतिः । पर्वतेभ्यः । वितूर्य । निः । गाः । ऊपे । यवम्इव । स्थिविभ्यः ॥sādhu-aryāḥ | atithinīḥ | iṣirāḥ | spārhāḥ | su-varṇāḥ | anavadya-rūpāḥ | bṛhaspatiḥ | parvatebhyaḥ | vi-tūrya | niḥ | gāḥ | ūpe | yavam-iva | sthivi-bhyaḥ