Sukta 10.68
सं गोभिराङ्गिरसो नक्षमाणो भग इवेदर्यमणं निनाय । जने मित्रो न दम्पती अनक्ति बृहस्पते वाजयाशूँरिवाजौ ॥
सं गोभि॑राङ्गिर॒सो नक्ष॑माणो॒ भग॑ इ॒वेद॑र्य॒मणं॑ निनाय । जने॑ मि॒त्रो न दम्प॑ती अनक्ति॒ बृह॑स्पते वा॒जया॒शूँरि॑वा॒जौ ॥
sáṃ góbhir āṅgirasó nákṣamāṇo bhága ivéd aryamáṇaṃ nināya | jáne mitró na dámpatī anakti bṛ́haspate vājáyāśū́ṃr ivājáu ||
With the rays of light the Angiras moves to the goal; like Bhaga he leads Aryaman onward. Like Mitra among men he anoints the two lords of the house; O Brihaspati, drive us to plenitude, like swift ones in the battle.
सम् । गोभिः॑ । आ॒ङ्गि॒र॒सः । नक्ष॑माणः । भगः॑ऽइव । इत् । अ॒र्य॒मण॑म् । नि॒ना॒य॒ । जने॑ । मि॒त्रः । न । दम्प॑ती॒ इति॒ दम्ऽप॑ती । अ॒न॒क्ति॒ । बृह॑स्पते । वा॒जय॑ । आ॒शून्ऽइ॑व । आ॒जौ ॥सम् । गोभिः । आङ्गिरसः । नक्षमाणः । भगःइव । इत् । अर्यमणम् । निनाय । जने । मित्रः । न । दम्पती इति दम्पती । अनक्ति । बृहस्पते । वाजय । आशून्इव । आजौ ॥sam | gobhiḥ | āṅgirasaḥ | nakṣamāṇaḥ | bhagaḥ-iva | it | aryamaṇam | nināya | jane | mitraḥ | na | dampatī itidam-patī | anakti | bṛhaspate | vājaya | āśūn-iva | ājau