Sukta 10.68
उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः । गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिमभ्यर्का अनावन् ॥
उ॒द॒प्रुतो॒ न वयो॒ रक्ष॑माणा॒ वाव॑दतो अ॒भ्रिय॑स्येव॒ घोषा॑: । गि॒रि॒भ्रजो॒ नोर्मयो॒ मद॑न्तो॒ बृह॒स्पति॑म॒भ्य१॒॑र्का अ॑नावन् ॥
udaprúto na váyo rákṣamāṇā vāvádataḥ abhriyásyeva ghóṣāḥ | giribhrájo nórmayo mádanto bṛ́haspátim abhyàrká anāvan ||
Like birds rising from the waters, guarding their own life-breath, the cries sound out like those of the cloud. Like waves flashing on the mountain-slope, exulting, the hymns have surged toward Brihaspati.
उ॒द॒ऽप्रुतः॑ । न । वयः॑ । रक्ष॑माणाः । वाव॑दतः । अ॒भ्रिय॑स्यऽइव । घोषाः॑ । गि॒रि॒ऽभ्रजः॑ । न । ऊ॒र्मयः॑ । मद॑न्तः । बृहस्पति॑म् । अ॒भि । अ॒र्काः । अ॒ना॒व॒न् ॥उदप्रुतः । न । वयः । रक्षमाणाः । वावदतः । अभ्रियस्यइव । घोषाः । गिरिभ्रजः । न । ऊर्मयः । मदन्तः । बृहस्पतिम् । अभि । अर्काः । अनावन् ॥uda-prutaḥ | na | vayaḥ | rakṣamāṇāḥ | vāvadataḥ | abhriyasya-iva | ghoṣāḥ | giri-bhrajaḥ | na | ūrmayaḥ | madantaḥ | bṛhaspatim | abhi | arkāḥ | anāvan