Sukta 10.67
इन्द्रो मह्ना महतो अर्णवस्य वि मूर्धानमभिनदर्बुदस्य । अहन्नहिमरिणात्सप्त सिन्धून्देवैर्द्यावापृथिवी प्रावतं नः ॥
इन्द्रो॑ म॒ह्ना म॑ह॒तो अ॑र्ण॒वस्य॒ वि मू॒र्धान॑मभिनदर्बु॒दस्य॑ । अह॒न्नहि॒मरि॑णात्स॒प्त सिन्धू॑न्दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ॥
índro mahnā́ maható arṇavásya ví mūrdhā́nam abhinad arbudásya | áhann áhim áriṇāt saptá síndhūn deváir dyā́vā-pṛthivī prá̄vatam naḥ ||
Indra, by the greatness of the great oceanic being, split open the head of Arbuda. He smote the serpent of obstruction; he set free the seven rivers of the being. O Heaven-and-Earth, with the gods, protect us onward.
इन्द्रः॑ । म॒ह्ना । म॒ह॒तः । अ॒र्ण॒वस्य॑ । वि । मू॒र्धान॑म् । अ॒भि॒न॒त् । अ॒र्बु॒दस्य॑ । अह॑न् । अहि॑म् । अरि॑णात् । स॒प्त । सिन्धू॑न् । दे॒वैः । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । प्र । अ॒व॒त॒म् । नः॒ ॥इन्द्रः । मह्ना । महतः । अर्णवस्य । वि । मूर्धानम् । अभिनत् । अर्बुदस्य । अहन् । अहिम् । अरिणात् । सप्त । सिन्धून् । देवैः । द्यावापृथिवी इति । प्र । अवतम् । नः ॥indraḥ | mahnā | mahataḥ | arṇavasya | vi | mūrdhānam | abhinat | arbudasya | ahan | ahim | ariṇāt | sapta | sindhūn | devaiḥ | dyāvāpṛthivī iti | pra | avatam | naḥ