Sukta 10.66
द्यावापृथिवी जनयन्नभि व्रताप ओषधीर्वनिनानि यज्ञिया । अन्तरिक्षं स्वरा पप्रुरूतये वशं देवासस्तन्वी नि मामृजुः ॥
द्यावा॑पृथि॒वी ज॑नयन्न॒भि व्र॒ताप॒ ओष॑धीर्व॒निना॑नि य॒ज्ञिया॑ । अ॒न्तरि॑क्षं॒ स्व१॒॑रा प॑प्रुरू॒तये॒ वशं॑ दे॒वास॑स्त॒न्वी॒३॒॑ नि मा॑मृजुः ॥
dyā́vāpṛthivī́ janayan abhí vratā́pa óṣadhīr vanínāni yajñíyā | antárikṣaṃ svàrā́ paprur ūtáye váśaṃ devā́sas tanvì ní māmṛjuḥ ||
Heaven-and-Earth brought forth the waters by the law; the plants and the forest-growths worthy of sacrifice. They filled the mid-world and the luminous realm for our help; the gods, by their own embodied power, shaped and set in us the right mastery (vaśa).
द्यावा॑पृथि॒वी इति॑ । ज॒न॒य॒न् । अ॒भि । व्र॒ता । आपः॑ । ओष॑धीः । व॒निना॑नि । य॒ज्ञिया॑ । अ॒न्तरि॑क्षम् । स्वः॑ । आ । प॒प्रुः॒ । ऊ॒तये॑ । वश॑म् । दे॒वासः॑ । त॒न्वि॑ । नि । म॒मृ॒जुः॒ ॥द्यावापृथिवी इति । जनयन् । अभि । व्रता । आपः । ओषधीः । वनिनानि । यज्ञिया । अन्तरिक्षम् । स्वः । आ । पप्रुः । ऊतये । वशम् । देवासः । तन्वि । नि । ममृजुः ॥dyāvāpṛthivī iti | janayan | abhi | vratā | āpaḥ | oṣadhīḥ | vanināni | yajñiyā | antarikṣam | svaḥ | ā | papruḥ | ūtaye | vaśam | devāsaḥ | tanvi | ni | mamṛjuḥ