Sukta 10.66
धर्तारो दिव ऋभवः सुहस्ता वातापर्जन्या महिषस्य तन्यतोः । आप ओषधीः प्र तिरन्तु नो गिरो भगो रातिर्वाजिनो यन्तु मे हवम् ॥
ध॒र्तारो॑ दि॒व ऋ॒भव॑: सु॒हस्ता॑ वातापर्ज॒न्या म॑हि॒षस्य॑ तन्य॒तोः । आप॒ ओष॑धी॒: प्र ति॑रन्तु नो॒ गिरो॒ भगो॑ रा॒तिर्वा॒जिनो॑ यन्तु मे॒ हव॑म् ॥
dhartā́ro divá ṛ́bhavaḥ su-hástā vātāparjanyā́ mahiṣásya tanyatóḥ | ā́pa óṣadhī́ḥ prá tirantu no gíro bhágo rātír vā́jino yantu me hávam ||
Sustainers of heaven, the Rbhus of skilful hands, and Wind-and-Parjanya of the thundering great one—may the waters and the plants carry forward our words. May Bhaga, the giver of the portion, and the bountiful bestowal of the strong ones come to my call.
ध॒र्तारः॑ । दि॒वः । ऋ॒भवः॑ । सु॒ऽहस्ताः॑ । वा॒ता॒प॒र्ज॒न्या । म॒हि॒षस्य॑ । त॒न्य॒तोः । आपः॑ । ओष॑धीः । प्र । ति॒र॒न्तु॒ । नः॒ । गिरः॒ । भगः॑ । रा॒तिः । वा॒जिनः॑ । य॒न्तु॒ । मे॒ । हव॑म् ॥धर्तारः । दिवः । ऋभवः । सुहस्ताः । वातापर्जन्या । महिषस्य । तन्यतोः । आपः । ओषधीः । प्र । तिरन्तु । नः । गिरः । भगः । रातिः । वाजिनः । यन्तु । मे । हवम् ॥dhartāraḥ | divaḥ | ṛbhavaḥ | su-hastāḥ | vātāparjanyā | mahiṣasya | tanyatoḥ | āpaḥ | oṣadhīḥ | pra | tirantu | naḥ | giraḥ | bhagaḥ | rātiḥ | vājinaḥ | yantu | me | havam