Sukta 10.66
अग्नीषोमा वृषणा वाजसातये पुरुप्रशस्ता वृषणा उप ब्रुवे । यावीजिरे वृषणो देवयज्यया ता नः शर्म त्रिवरूथं वि यंसतः ॥
अ॒ग्नीषोमा॒ वृष॑णा॒ वाज॑सातये पुरुप्रश॒स्ता वृष॑णा॒ उप॑ ब्रुवे । यावी॑जि॒रे वृष॑णो देवय॒ज्यया॒ ता न॒: शर्म॑ त्रि॒वरू॑थं॒ वि यं॑सतः ॥
agnī́ṣomā vṛ́ṣaṇā vā́ja-sātaye puru-praśastā́ vṛ́ṣaṇā́ úpa bruve | yā́v ījiré vṛ́ṣaṇo deva-yajyáyā tā́ naḥ śárma tri-varū́thaṃ ví yāṃsataḥ ||
Agni and Soma, the two potent ones, for the winning of plenitude (vāja), widely praised, I call near. You who have laboured by the worship of the gods—extend to us peace, and spread out for us the threefold shelter.
अ॒ग्नीषोमा॑ । वृष॑णा । वाज॑ऽसातये । पु॒रु॒ऽप्र॒श॒स्ता । वृष॑णौ । उप॑ । ब्रु॒वे॒ । यौ । ई॒जि॒रे । वृष॑णः । दे॒व॒ऽय॒ज्यया॑ । ता । नः॒ । शर्म॑ । त्रि॒ऽवरू॑थम् । वि । यां॒स॒तः॒ ॥अग्नीषोमा । वृषणा । वाजसातये । पुरुप्रशस्ता । वृषणौ । उप । ब्रुवे । यौ । ईजिरे । वृषणः । देवयज्यया । ता । नः । शर्म । त्रिवरूथम् । वि । यांसतः ॥agnīṣomā | vṛṣaṇā | vāja-sātaye | puru-praśastā | vṛṣaṇau | upa | bruve | yau | ījire | vṛṣaṇaḥ | deva-yajyayā | tā | naḥ | śarma | tri-varūtham | vi | yāṃsataḥ