Sukta 10.66
सरस्वान्धीभिर्वरुणो धृतव्रतः पूषा विष्णुर्महिमा वायुरश्विना । ब्रह्मकृतो अमृता विश्ववेदसः शर्म नो यंसन्त्रिवरूथमंहसः ॥
सर॑स्वान्धी॒भिर्वरु॑णो धृ॒तव्र॑तः पू॒षा विष्णु॑र्महि॒मा वा॒युर॒श्विना॑ । ब्र॒ह्म॒कृतो॑ अ॒मृता॑ वि॒श्ववे॑दस॒: शर्म॑ नो यंसन्त्रि॒वरू॑थ॒मंह॑सः ॥
sárasvān dhībhír váruṇo dhṛtávrataḥ pūṣā́ víṣṇur mahimā́ vāyúr aśvínā | brahma-kṛ́to amṛ́tā viśvávedasaḥ śárma no yaṃsan tri-varū́tham áṃhasaḥ ||
May Sarasvan with our illumined thoughts, and Varuna firm in his law; Pushan, Vishnu of the mighty wideness; Vayu and the Ashvins—these immortals, fashioners of the soul’s word, all-knowers—grant us peace and a threefold shelter from the constricting wrong (aṃhas).
सर॑स्वान् । धी॒भिः । वरु॑णः । धृ॒तऽव्र॑तः । पू॒षा । विष्णुः॑ । म॒हि॒मा । वा॒युः । अ॒श्विना॑ । ब्र॒ह्म॒ऽकृतः॑ । अ॒मृताः॑ । वि॒श्वऽवे॑दसः । शर्म॑ । नः॒ । यं॒स॒न् । त्रि॒ऽवरू॑थम् । अंह॑सः ॥सरस्वान् । धीभिः । वरुणः । धृतव्रतः । पूषा । विष्णुः । महिमा । वायुः । अश्विना । ब्रह्मकृतः । अमृताः । विश्ववेदसः । शर्म । नः । यंसन् । त्रिवरूथम् । अंहसः ॥sarasvān | dhībhiḥ | varuṇaḥ | dhṛta-vrataḥ | pūṣā | viṣṇuḥ | mahimā | vāyuḥ | aśvinā | brahma-kṛtaḥ | amṛtāḥ | viśva-vedasaḥ | śarma | naḥ | yaṃsan | tri-varūtham | aṃhasaḥ