Sukta 10.66
अदितिर्द्यावापृथिवी ऋतं महदिन्द्राविष्णू मरुतः स्वर्बृहत् । देवाँ आदित्याँ अवसे हवामहे वसून्रुद्रान्त्सवितारं सुदंससम् ॥
अदि॑ति॒र्द्यावा॑पृथि॒वी ऋ॒तं म॒हदिन्द्रा॒विष्णू॑ म॒रुत॒: स्व॑र्बृ॒हत् । दे॒वाँ आ॑दि॒त्याँ अव॑से हवामहे॒ वसू॑न्रु॒द्रान्त्स॑वि॒तारं॑ सु॒दंस॑सम् ॥
adítiḥ dyā́vāpṛthivī́ ṛtáṃ mahád indrā́viṣṇū marútaḥ svàr bṛhát | devā́n ādityā́n aváse havāmahe vasū́n rudrā́nt savitā́raṃ su-dáṃsasam ||
Aditi, and Heaven-and-Earth; the vast Truth (ṛtam mahat); Indra-Vishnu; the Maruts; and the wide luminous world (svar bṛhat)—we call the Gods, the Adityas, for our fostering help: the Vasus, the Rudras, and Savitar of the good and faultless workings.
अदि॑तिः । द्यावा॑पृथि॒वी इति॑ । ऋ॒तम् । म॒हत् । इन्द्रा॒विष्णू॒ इति॑ । म॒रुतः॒ । स्वः॑ । बृ॒हत् । दे॒वान् । आ॒दि॒त्यान् । अव॑से । ह॒वा॒म॒हे॒ । वसू॑न् । रु॒द्रान् । स॒वि॒तार॑म् । सु॒ऽदंस॑सम् ॥अदितिः । द्यावापृथिवी इति । ऋतम् । महत् । इन्द्राविष्णू इति । मरुतः । स्वः । बृहत् । देवान् । आदित्यान् । अवसे । हवामहे । वसून् । रुद्रान् । सवितारम् । सुदंससम् ॥aditiḥ | dyāvāpṛthivī iti | ṛtam | mahat | indrāviṣṇūiti | marutaḥ | svaḥ | bṛhat | devān | ādityān | avase | havāmahe | vasūn | rudrān | savitāram | su-daṃsasam