Sukta 10.66
इन्द्रो वसुभिः परि पातु नो गयमादित्यैर्नो अदितिः शर्म यच्छतु । रुद्रो रुद्रेभिर्देवो मृळयाति नस्त्वष्टा नो ग्नाभिः सुविताय जिन्वतु ॥
इन्द्रो॒ वसु॑भि॒: परि॑ पातु नो॒ गय॑मादि॒त्यैर्नो॒ अदि॑ति॒: शर्म॑ यच्छतु । रु॒द्रो रु॒द्रेभि॑र्दे॒वो मृ॑ळयाति न॒स्त्वष्टा॑ नो॒ ग्नाभि॑: सुवि॒ताय॑ जिन्वतु ॥
índro vásubhiḥ pári pātu no gáyam ādityái rno áditiḥ śárma yacchatu | rudró rudrébhir devó mṛḷayāti nas tváṣṭā no gnā́bhiḥ suvitā́ya jinvatu ||
May Indra with the Vasus guard our vital being; may Aditi with the Ādityas grant us shelter. May Rudra with the Rudras show us mercy; may Tvaṣṭṛ with his shaping powers quicken us toward the right going and the good passage.
इन्द्रः॑ । वसु॑ऽभिः । परि॑ । पा॒तु॒ । नः॒ । गय॑म् । आ॒दि॒त्यैः । नः॒ । अदि॑तिः । शर्म॑ । य॒च्छ॒तु॒ । रु॒द्रः । रु॒द्रेभिः॑ । दे॒वः । मृ॒ळ॒या॒ति॒ । नः॒ । त्वष्टा॑ । नः॒ । ग्नाभिः॑ । सु॒वि॒ताय॑ । जि॒न्व॒तु॒ ॥इन्द्रः । वसुभिः । परि । पातु । नः । गयम् । आदित्यैः । नः । अदितिः । शर्म । यच्छतु । रुद्रः । रुद्रेभिः । देवः । मृळयाति । नः । त्वष्टा । नः । ग्नाभिः । सुविताय । जिन्वतु ॥indraḥ | vasu-bhiḥ | pari | pātu | naḥ | gayam | ādityaiḥ | naḥ | aditiḥ | śarma | yacchatu | rudraḥ | rudrebhiḥ | devaḥ | mṛḷayāti | naḥ | tvaṣṭā | naḥ | gnābhiḥ | suvitāya | jinvatu