Sukta 10.66
इन्द्रप्रसूता वरुणप्रशिष्टा ये सूर्यस्य ज्योतिषो भागमानशुः । मरुद्गणे वृजने मन्म धीमहि माघोने यज्ञं जनयन्त सूरयः ॥
इन्द्र॑प्रसूता॒ वरु॑णप्रशिष्टा॒ ये सूर्य॑स्य॒ ज्योति॑षो भा॒गमा॑न॒शुः । म॒रुद्ग॑णे वृ॒जने॒ मन्म॑ धीमहि॒ माघो॑ने य॒ज्ञं ज॑नयन्त सू॒रय॑: ॥
índra-prasūtā váruṇa-praśiṣṭā yé sū́ryasya jyótiṣo bhāgám ānaśúḥ | marúd-gaṇe vṛjáne mánma dhīmahi mā́ghone yajñáṃ janayanta sū́rayaḥ ||
Impulsed by Indra, guided by Varuṇa—those who have won a share of the Sun’s light—we hold our inspired thought in the host of the Maruts, in the battle-press of life. The seers bring the sacrifice to birth for the bounteous one, shaping the inner offering into a growing power.
इन्द्र॑ऽप्रसूताः । वरु॑णऽप्रशिष्टाः । ये । सूर्य॑स्य । ज्योति॑षः । भा॒गम् । आ॒न॒शुः । म॒रुत्ऽग॑णे । वृ॒जने॑ । मन्म॑ । धी॒म॒हि॒ । माघो॑ने । य॒ज्ञम् । ज॒न॒य॒न्त॒ । सू॒रयः॑ ॥इन्द्रप्रसूताः । वरुणप्रशिष्टाः । ये । सूर्यस्य । ज्योतिषः । भागम् । आनशुः । मरुत्गणे । वृजने । मन्म । धीमहि । माघोने । यज्ञम् । जनयन्त । सूरयः ॥indra-prasūtāḥ | varuṇa-praśiṣṭāḥ | ye | sūryasya | jyotiṣaḥ | bhāgam | ānaśuḥ | marut-gaṇe | vṛjane | manma | dhīmahi | māghone | yajñam | janayanta | sūrayaḥ