Sukta 10.66
स्याम वो मनवो देववीतये प्राञ्चं नो यज्ञं प्र णयत साधुया । आदित्या रुद्रा वसवः सुदानव इमा ब्रह्म शस्यमानानि जिन्वत ॥
स्याम॑ वो॒ मन॑वो दे॒ववी॑तये॒ प्राञ्चं॑ नो य॒ज्ञं प्र ण॑यत साधु॒या । आदि॑त्या॒ रुद्रा॒ वस॑व॒: सुदा॑नव इ॒मा ब्रह्म॑ श॒स्यमा॑नानि जिन्वत ॥
syā́ma vo mánavo deva-vī́taye prā́ñcaṃ no yajñáṃ prá ṇayata sādhu-yā́ | ādítyā rudrā́ vásavaḥ su-dā́nav imā́ bráhma śasyámānāni jinvata ||
May we be yours, O Manes (ancestral powers), for the winning of the gods; lead our sacrifice forward on the right path. O Adityas, Rudras, Vasus—givers of true bounty—strengthen these soul-words as they are being affirmed.
स्याम॑ । वः॒ । मन॑वः । दे॒वऽवी॑तये । प्राञ्च॑म् । नः॒ । य॒ज्ञम् । प्र । न॒य॒त॒ । सा॒धु॒ऽया । आदी॑त्याः । रुद्राः॑ । वस॑वः । सुऽदा॑नवः । इ॒मा । ब्रह्म॑ । श॒स्यमा॑नानि । जि॒न्व॒त॒ ॥स्याम । वः । मनवः । देववीतये । प्राञ्चम् । नः । यज्ञम् । प्र । नयत । साधुया । आदीत्याः । रुद्राः । वसवः । सुदानवः । इमा । ब्रह्म । शस्यमानानि । जिन्वत ॥syāma | vaḥ | manavaḥ | deva-vītaye | prāñcam | naḥ | yajñam | pra | nayata | sādhu-yā | ādītyāḥ | rudrāḥ | vasavaḥ | su-dānavaḥ | imā | brahma | śasyamānāni | jinvata