Sukta 10.61
मक्षू न वह्निः प्रजाया उपब्दिरग्निं न नग्न उप सीददूधः । सनितेध्मं सनितोत वाजं स धर्ता जज्ञे सहसा यवीयुत् ॥
म॒क्षू न वह्नि॑: प्र॒जाया॑ उप॒ब्दिर॒ग्निं न न॒ग्न उप॑ सीद॒दूध॑: । सनि॑ते॒ध्मं सनि॑तो॒त वाजं॒ स ध॒र्ता ज॑ज्ञे॒ सह॑सा यवी॒युत् ॥
makṣū́ ná váhniḥ pra-jā́yā upabdir agníṃ ná nagná úpa sīdad ū́dhaḥ | sánitā ídhmaṃ sánitotá vā́jaṃ sá dhartā́ jajñe sáhasā yavīyút ||
Swiftly, like a bearer, the call of the offspring draws near; like a naked flame it sits close to the udder (the hidden source). Winner of the fuel and winner too of plenitude of force, that upholder is born—young, by sheer might—sustaining the work from its secret nourishment.
म॒क्षु । न । वह्निः॑ । प्र॒ऽजायाः॑ । उ॒प॒ब्दिः । अ॒ग्निम् । न । न॒ग्नः । उप॑ । सीद॑त् । ऊधः॑ । सनि॑ता । इ॒ध्मम् । सनि॑ता । उ॒त । वाज॑म् । सः । ध॒र्ता । ज॒ज्ञे॒ । सह॑सा । य॒वि॒ऽयुत् ॥मक्षु । न । वह्निः । प्रजायाः । उपब्दिः । अग्निम् । न । नग्नः । उप । सीदत् । ऊधः । सनिता । इध्मम् । सनिता । उत । वाजम् । सः । धर्ता । जज्ञे । सहसा । यवियुत् ॥makṣu | na | vahniḥ | pra-jāyāḥ | upabdiḥ | agnim | na | nagnaḥ | upa | sīdat | ūdhaḥ | sanitā | idhmam | sanitā | uta | vājam | saḥ | dhartā | jajñe | sahasā | yav i-yut