Sukta 10.61
स ईं वृषा न फेनमस्यदाजौ स्मदा परैदप दभ्रचेताः । सरत्पदा न दक्षिणा परावृङ्न ता नु मे पृशन्यो जगृभ्रे ॥
स ईं॒ वृषा॒ न फेन॑मस्यदा॒जौ स्मदा परै॒दप॑ द॒भ्रचे॑ताः । सर॑त्प॒दा न दक्षि॑णा परा॒वृङ्न ता नु मे॑ पृश॒न्यो॑ जगृभ्रे ॥
sá īṃ vṛ́ṣā ná phénam asyad ājā́u smád ā́ paráit ápa dábhracetāḥ | sárat padā́ ná dákṣiṇā parā́vṛṅ ná tā́ nú me pṛśanyó jagṛbhre ||
He, like a bull, flung forth the foam in the battle; then the little-mindedness fell away and he moved beyond. The right-giving power slipped from the step and turned aside—yet those forces, now, do not seize me; I refuse the grasp of the dark-spotted disturbers.
सः । ई॒म् । वृषा॑ । न । फेन॑म् । अ॒स्य॒त् । आ॒जौ । स्मत् । आ । परा॑ । ऐ॒त् । अप॑ । द॒भ्रऽचे॑ताः । सर॑त् । प॒दा । न । दक्षि॑णा । प॒रा॒ऽवृक् । न । ताः । नु । मे॒ । पृ॒श॒न्यः॑ । ज॒गृ॒भ्रे॒ ॥सः । ईम् । वृषा । न । फेनम् । अस्यत् । आजौ । स्मत् । आ । परा । ऐत् । अप । दभ्रचेताः । सरत् । पदा । न । दक्षिणा । परावृक् । न । ताः । नु । मे । पृशन्यः । जगृभ्रे ॥saḥ | īm | vṛṣā | na | phenam | asyat | ājau | smat | ā | parā | ait | apa | dabhra-cetāḥ | sarat | padā | na | dakṣiṇā | parāvṛk | na | tāḥ | nu | me | pṛśanyaḥ | jagṛbhre