Sukta 10.61
पिता यत्स्वां दुहितरमधिष्कन्क्ष्मया रेतः संजग्मानो नि षिञ्चत् । स्वाध्योऽजनयन्ब्रह्म देवा वास्तोष्पतिं व्रतपां निरतक्षन् ॥
पि॒ता यत्स्वां दु॑हि॒तर॑मधि॒ष्कन्क्ष्म॒या रेत॑: संजग्मा॒नो नि षि॑ञ्चत् । स्वा॒ध्यो॑ऽजनय॒न्ब्रह्म॑ दे॒वा वास्तो॒ष्पतिं॑ व्रत॒पां निर॑तक्षन् ॥
pitā́ yát svā́ṃ duhítaram adhi-skán kṣmáyā́ rétaḥ saṃjagmā́nō ní ṣiñcat | svā́dhyò ’janayan bráhma devā́ vāstóṣpátiṃ vratapā́ṃ nír atakṣan ||
When the Father approached his own Daughter and, joining with the earth, poured the seed, then from the right inner placing the gods brought forth the Mantra-Truth; and they fashioned Vāstoṣpati, the guardian of the vow, the lord of the inner dwelling.
पि॒ता । यत् । स्वाम् । दु॒हि॒तर॑म् । अ॒धि॒ऽस्कन् । क्ष्म॒या । रेतः॑ । स॒म्ऽज॒ग्मा॒नः । नि । सि॒ञ्च॒त् । सु॒ऽआ॒ध्यः॑ । अ॒ज॒न॒य॒न् । ब्रह्म॑ । दे॒वाः । वास्तोः॑ । पति॑म् । व्र॒त॒ऽपाम् । निः । अ॒त॒क्ष॒न् ॥पिता । यत् । स्वाम् । दुहितरम् । अधिस्कन् । क्ष्मया । रेतः । सम्जग्मानः । नि । सिञ्चत् । सुआध्यः । अजनयन् । ब्रह्म । देवाः । वास्तोः । पतिम् । व्रतपाम् । निः । अतक्षन् ॥pitā | yat | svām | duhitaram | adhi-skan | kṣmayā | retaḥ | sam-jagmānaḥ | ni | s iñcat | su-ādhyaḥ | ajanayan | brahma | devāḥ | vāstoḥ | patim | vrata-pām | ni ḥ | atakṣan