Sukta 10.61
मध्या यत्कर्त्वमभवदभीके कामं कृण्वाने पितरि युवत्याम् । मनानग्रेतो जहतुर्वियन्ता सानौ निषिक्तं सुकृतस्य योनौ ॥
म॒ध्या यत्कर्त्व॒मभ॑वद॒भीके॒ कामं॑ कृण्वा॒ने पि॒तरि॑ युव॒त्याम् । म॒ना॒नग्रेतो॑ जहतुर्वि॒यन्ता॒ सानौ॒ निषि॑क्तं सुकृ॒तस्य॒ योनौ॑ ॥
madhyā́ yát kartvám ábhavad abhī́ke kā́maṃ kṛṇvāné pitári yuvatýām | manānágreto jahatúr viyántā sānāú níṣiktaṃ sukṛtásya yónau ||
When in the midst, in the near and inward place, the act was done—desire shaping itself in the Father and the young one—then, intent in mind, they released the creative seed, parting; it was poured upon the summit into the womb of the well-made (the right formation).
म॒ध्या । यत् । कर्त्व॑म् । अभ॑वत् । अ॒भीके॑ । काम॑म् । कृ॒ण्वा॒ने । पि॒तरि॑ । यु॒व॒त्याम् । म॒ना॒नक् । रेतः॑ । ज॒ह॒तुः॒ । वि॒ऽयन्ता॑ । सानौ॑ । निऽसि॑क्तम् । सु॒ऽकृ॒तस्य॑ । योनौ॑ ॥मध्या । यत् । कर्त्वम् । अभवत् । अभीके । कामम् । कृण्वाने । पितरि । युवत्याम् । मनानक् । रेतः । जहतुः । वियन्ता । सानौ । निसिक्तम् । सुकृतस्य । योनौ ॥madhyā | yat | kartvam | abhavat | abhīke | kāmam | kṛṇvāne | pitari | yuvatyām | manānak | retaḥ | jahatuḥ | vi-yantā | sānau | ni-siktam | su-kṛtasya | yonau