Sukta 10.61
कृष्णा यद्गोष्वरुणीषु सीदद्दिवो नपाताश्विना हुवे वाम् । वीतं मे यज्ञमा गतं मे अन्नं ववन्वांसा नेषमस्मृतध्रू ॥
कृ॒ष्णा यद्गोष्व॑रु॒णीषु॒ सीद॑द्दि॒वो नपा॑ताश्विना हुवे वाम् । वी॒तं मे॑ य॒ज्ञमा ग॑तं मे॒ अन्नं॑ वव॒न्वांसा॒ नेष॒मस्मृ॑तध्रू ॥
kṛṣṇā́ yád góṣv aruṇī́ṣu sī́dad divó nápātā aśvinā huv́e vām | vītáṃ me yajñám ā́ gátam me ánnaṃ vavanvā́ṃsā ná íṣam asmṛtadhrū ||
When the dark force settles upon the ruddy herds (the rays), O Aśvins, children of Heaven, I call you. Enjoy my sacrifice; come to my nourishment: you who win the plenitude, do not let my seeking of delight and increase fall into forgetfulness or wavering.
कृ॒ष्णा । यत् । गोषु॑ । अ॒रु॒णीषु॑ । सीद॑त् । दि॒वः । नपा॑ता । अ॒श्वि॒ना॒ । हु॒वे॒ । वा॒म् । वी॒तम् । मे॒ । य॒ज्ञम् । आ । ग॒त॒म् । मे॒ । अन्न॑म् । व॒व॒न्वांसा॑ । न । इष॑म् । अस्मृ॑तध्रू॒ इत्यस्मृ॑तऽध्रू ॥कृष्णा । यत् । गोषु । अरुणीषु । सीदत् । दिवः । नपाता । अश्विना । हुवे । वाम् । वीतम् । मे । यज्ञम् । आ । गतम् । मे । अन्नम् । ववन्वांसा । न । इषम् । अस्मृतध्रू इत्यस्मृतध्रू ॥kṛṣṇā | yat | goṣu | aruṇīṣu | sīdat | divaḥ | napātā | aśvinā | huve | vām | vītam | me | yajñam | ā | gatam | me | annam | vavanvāṃsā | na | iṣam | asmṛtadhrūity asmṛta-dhrū