Sukta 10.61
मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथो द्रवन्ता । आ यः शर्याभिस्तुविनृम्णो अस्याश्रीणीतादिशं गभस्तौ ॥
मनो॒ न येषु॒ हव॑नेषु ति॒ग्मं विप॒: शच्या॑ वनु॒थो द्रव॑न्ता । आ यः शर्या॑भिस्तुविनृ॒म्णो अ॒स्याश्री॑णीता॒दिशं॒ गभ॑स्तौ ॥
máno ná yéṣu hávaneṣu tigmáṃ vípaḥ śácyā vanútho drávantā | ā́ yáḥ śáryābhis tuvínṛmṇo asyā́śrīṇīt ā́diśaṃ gábhastau ||
In those callings where the sharp force runs like the mind itself, the inspired seers, by effective power, win and rush forward. He who, mighty in manhood, with his driving rays, has mixed and set the direction in his grasp—he founds the straight path of the offering.
मनः॑ । न । येषु॑ । हव॑नेषु । ति॒ग्मम् । विपः॑ । शच्या॑ । व॒नु॒थः । द्रव॑न्ता । आ । यः । शर्या॑भिः । तु॒वि॒ऽनृ॒म्णः । अ॒स्य॒ । अश्री॑णीत । आ॒ऽदिश॑म् । गभ॑स्तौ ॥मनः । न । येषु । हवनेषु । तिग्मम् । विपः । शच्या । वनुथः । द्रवन्ता । आ । यः । शर्याभिः । तुविनृम्णः । अस्य । अश्रीणीत । आदिशम् । गभस्तौ ॥manaḥ | na | yeṣu | havaneṣu | tigmam | vipaḥ | śacyā | vanuthaḥ | dravantā | ā | yaḥ | śaryābhiḥ | tuvi-nṛmṇaḥ | asya | aśrīṇīta | ādiśam | gabhastau