Sukta 10.61
स इद्दानाय दभ्याय वन्वञ्च्यवानः सूदैरमिमीत वेदिम् । तूर्वयाणो गूर्तवचस्तमः क्षोदो न रेत इतऊति सिञ्चत् ॥
स इद्दा॒नाय॒ दभ्या॑य व॒न्वञ्च्यवा॑न॒: सूदै॑रमिमीत॒ वेदि॑म् । तूर्व॑याणो गू॒र्तव॑चस्तम॒: क्षोदो॒ न रेत॑ इ॒तऊ॑ति सिञ्चत् ॥
sá íd dānā́ya dábhyāya vánvan cyávānaḥ sūdáiḥ amimīta védim | tū́rvayāṇo gūrtá-vacastamáḥ kṣódho ná réta itá-ūti siñcat ||
He, pressing towards the giving and the unassailable, striving and moving on, measured out the altar by rich offerings. Driving forward, most perfectly right in speech, he pours the impulsion like seed, from this very help, to found a new birth of the work in the darkness.
सः । इत् । दा॒नाय॑ । दभ्या॑य । व॒न्वन् । च्यवा॑नः । सूदैः॑ । अ॒मि॒मी॒त॒ । वेदि॑म् । तूर्व॑याणः । गू॒र्तव॑चःऽतमः । क्षोदः॑ । न । रेतः॑ । इ॒तःऽऊ॑ति । सि॒ञ्च॒त् ॥सः । इत् । दानाय । दभ्याय । वन्वन् । च्यवानः । सूदैः । अमिमीत । वेदिम् । तूर्वयाणः । गूर्तवचःतमः । क्षोदः । न । रेतः । इतःऊति । सिञ्चत् ॥saḥ | it | dānāya | dabhyāya | vanvan | cyavānaḥ | sūdaiḥ | amimīta | vedim | tūvaryāṇaḥ | gūrtavacaḥ-tamaḥ | kṣodaḥ | na | retaḥ | itaḥ-ūti | siñcat