Sukta 10.61
युवोर्यदि सख्यायास्मे शर्धाय स्तोमं जुजुषे नमस्वान् । विश्वत्र यस्मिन्ना गिरः समीचीः पूर्वीव गातुर्दाशत्सूनृतायै ॥
यु॒वोर्यदि॑ स॒ख्याया॒स्मे शर्धा॑य॒ स्तोमं॑ जुजु॒षे नम॑स्वान् । वि॒श्वत्र॒ यस्मि॒न्ना गिर॑: समी॒चीः पू॒र्वीव॑ गा॒तुर्दाश॑त्सू॒नृता॑यै ॥
yuvór yádi sakhyā́yāsme śárdhāya stómaṃ jujuṣé námasvān | víśvatra yásminn ā́ gíraḥ samīcī́ḥ pū́rvīva gātúr dā́śat sūnṛ́tāyai ||
If, for your friendship, the company here accepts with homage the hymn of praise—then in him, from every side, the rightly-joining words come together; as in the ancient way, the path gives itself to the true and luminous speech.
यु॒वोः । यदि॑ । स॒ख्याय॑ । अ॒स्मे इति॑ । शर्धा॑य । स्तोम॑म् । जु॒जु॒षे । नम॑स्वान् । वि॒श्वत्र॑ । यस्मि॑न् । आ । गिरः॑ । स॒म्ऽई॒चीः । पू॒र्वीऽइ॑व । गा॒तुः । दाश॑त् । सू॒नृता॑यै ॥युवोः । यदि । सख्याय । अस्मे इति । शर्धाय । स्तोमम् । जुजुषे । नमस्वान् । विश्वत्र । यस्मिन् । आ । गिरः । सम्ईचीः । पूर्वीइव । गातुः । दाशत् । सूनृतायै ॥yuvoḥ | yadi | sakhyāya | asme iti | śardhāya | stomam | jujuṣe | namasvān | viśvatra | yasmin | ā | giraḥ | sam-īcīḥ | pūrvī-iva | gātuḥ | dāśat | sūnṛtāyai