Sukta 10.61
अधा न्वस्य जेन्यस्य पुष्टौ वृथा रेभन्त ईमहे तदू नु । सरण्युरस्य सूनुरश्वो विप्रश्चासि श्रवसश्च सातौ ॥
अधा॒ न्व॑स्य॒ जेन्य॑स्य पु॒ष्टौ वृथा॒ रेभ॑न्त ईमहे॒ तदू॒ नु । स॒र॒ण्युर॑स्य सू॒नुरश्वो॒ विप्र॑श्चासि॒ श्रव॑सश्च सा॒तौ ॥
adhā nv asya jényasya púṣṭau vṛ́thā rébhanta īmahe tád ū́ nú | saraṇyúr asya sūnúr áśvo vípraś cāsi śrávasaś ca sātáu ||
Then indeed for the increase of this victorious one we strive, not vainly, for that now. For thou art his swift-moving son, the Horse—an inspired seer too—and in the winning of fame thou art the power that attains.
अध॑ । नु । अ॒स्य॒ । जेन्य॑स्य । पु॒ष्टौ । वृथा॑ । रेभ॑न्तः । ई॒म॒हे॒ । तत् । ऊँ॒ इति॑ । नु । स॒र॒ण्युः । अ॒स्य॒ । सू॒नुः । अश्वः॑ । विप्रः॑ । च॒ । अ॒सि॒ । श्रव॑सः । च॒ । सा॒तौ ॥अध । नु । अस्य । जेन्यस्य । पुष्टौ । वृथा । रेभन्तः । ईमहे । तत् । ऊँ इति । नु । सरण्युः । अस्य । सूनुः । अश्वः । विप्रः । च । असि । श्रवसः । च । सातौ ॥adha | nu | asya | jenyasya | puṣṭau | vṛthā | rebhantaḥ | īmahe | tat | oṃ iti | nu | saraṇyuḥ | asya | sūnuḥ | aśvaḥ | vipraḥ | ca | asi | śravasaḥ | ca | sātau