Sukta 10.61
अध त्वमिन्द्र विद्ध्यस्मान्महो राये नृपते वज्रबाहुः । रक्षा च नो मघोनः पाहि सूरीननेहसस्ते हरिवो अभिष्टौ ॥
अध॒ त्वमि॑न्द्र वि॒द्ध्य१॒॑स्मान्म॒हो रा॒ये नृ॑पते॒ वज्र॑बाहुः । रक्षा॑ च नो म॒घोन॑: पा॒हि सू॒रीन॑ने॒हस॑स्ते हरिवो अ॒भिष्टौ॑ ॥
adhá tvám indra viddhy asmān máho rāyé nṛpate vájrabāhuḥ | rákṣā ca no maghonaḥ pāhí sūrīn anéhasaḥ te harivo abhíṣṭau ||
Then, O Indra, know us and take us into thy regard for the great plenitude; O lord of men with the thunder-arm. Guard us, O bounteous one; protect our illumined leaders, and in thy untroubled help, O thou of the tawny steeds, be our close support.
अध॑ । त्वम् । इ॒न्द्र॒ । वि॒द्धि । अ॒स्मान् । म॒हः । रा॒ये । नृ॒ऽप॒ते॒ । वज्र॑ऽबाहुः । रक्ष॑ । च॒ । नः॒ । म॒घोनः॑ । पा॒हि । सू॒रीन् । अ॒ने॒हसः॑ । ते॒ । ह॒रि॒ऽवः॒ । अ॒भिष्टौ॑ ॥अध । त्वम् । इन्द्र । विद्धि । अस्मान् । महः । राये । नृपते । वज्रबाहुः । रक्ष । च । नः । मघोनः । पाहि । सूरीन् । अनेहसः । ते । हरिवः । अभिष्टौ ॥adha | tvam | indra | viddhi | asmān | mahaḥ | rāye | nṛ-pate | vajra-bāhuḥ | rakṣa | ca | naḥ | maghonaḥ | pāhi | sūrīn | anehasaḥ | te | hari-vaḥ | abhiṣṭau