Sukta 10.61
अधा गाव उपमातिं कनाया अनु श्वान्तस्य कस्य चित्परेयुः । श्रुधि त्वं सुद्रविणो नस्त्वं याळाश्वघ्नस्य वावृधे सूनृताभिः ॥
अधा॒ गाव॒ उप॑मातिं क॒नाया॒ अनु॑ श्वा॒न्तस्य॒ कस्य॑ चि॒त्परे॑युः । श्रु॒धि त्वं सु॑द्रविणो न॒स्त्वं या॑ळाश्व॒घ्नस्य॑ वावृधे सू॒नृता॑भिः ॥
adhā gāva upamātiṃ kanāyā́ anu śvā́ntasya kásya cit páreyuḥ | śrudhí tvaṃ sudraviṇo nas tvaṃ yā́ḷāśvagh́nasyā vāvṛdhe sūnṛ́tābhiḥ ||
Then the luminous Rays (the Cows) followed the guiding measure of the maiden-power and moved beyond the panting hound of any seeker. Hear us, O giver of rich plenitude; you, who by words of true and right utterance increase the slayer of the hostile horse-force within.
अध॑ । गावः॑ । उप॑ऽमातिम् । क॒नायाः॑ । अनु॑ । श्वा॒न्तस्य॑ । कस्य॑ । चि॒त् । परा॑ । ई॒युः॒ । श्रु॒धि । त्वम् । सु॒ऽद्र॒वि॒णः॒ । नः॒ । त्वम् । या॒ट् । आ॒श्व॒ऽघ्नस्य॑ । व॒वृ॒धे॒ । सू॒नृता॑भिः ॥अध । गावः । उपमातिम् । कनायाः । अनु । श्वान्तस्य । कस्य । चित् । परा । ईयुः । श्रुधि । त्वम् । सुद्रविणः । नः । त्वम् । याट् । आश्वघ्नस्य । ववृधे । सूनृताभिः ॥adha | gāvaḥ | upa-mātim | kanāyāḥ | anu | śvāntasya | kasya | cit | parā | īyuḥ | śrudhi | tvam | su-draviṇaḥ | naḥ | tvam | yāṭ | āśva-ghnasya | vavṛdhe | sūnṛtābhiḥ