Sukta 10.61
अधासु मन्द्रो अरतिर्विभावाव स्यति द्विवर्तनिर्वनेषाट् । ऊर्ध्वा यच्छ्रेणिर्न शिशुर्दन्मक्षू स्थिरं शेवृधं सूत माता ॥
अधा॑सु म॒न्द्रो अ॑र॒तिर्वि॒भावाव॑ स्यति द्विवर्त॒निर्व॑ने॒षाट् । ऊ॒र्ध्वा यच्छ्रेणि॒र्न शिशु॒र्दन्म॒क्षू स्थि॒रं शे॑वृ॒धं सू॑त मा॒ता ॥
ádhāsu mandró aratír vibhā́vā́va syati dvivartanír vaneṣā́ṭ | ūrdhvā́ yác chréṇir ná śíśur dán makṣū́ sthiráṃ śevṛ́dhaṃ sūta mātā́ ||
Then the glad, shining mover casts himself down, turning in two ways, a conqueror in the wood. When the line rises upward—like a child’s tooth—then swiftly the Mother brings forth the stable, the growth of well-being.
अध॑ । आ॒सु॒ । म॒न्द्रः । अ॒र॒तिः । वि॒भाऽवा॑ । अव॑ । स्य॒ति॒ । द्वि॒ऽव॒र्त॒निः । व॒ने॒षाट् । ऊ॒र्ध्वा । यत् । श्रेणिः॑ । न । शिशुः॑ । दन् । म॒क्षु । स्थि॒रम् । शे॒ऽवृ॒धम् । सू॒त॒ । मा॒ता ॥अध । आसु । मन्द्रः । अरतिः । विभावा । अव । स्यति । द्विवर्तनिः । वनेषाट् । ऊर्ध्वा । यत् । श्रेणिः । न । शिशुः । दन् । मक्षु । स्थिरम् । शेवृधम् । सूत । माता ॥adha | āsu | mandraḥ | aratiḥ | vibhāvā | ava | syati | dvi-vartaniḥ | vaneṣāṭ | ūrdhvā | yat | śreṇiḥ | na | śiśuḥ | dan | makṣu | sthiram | śe--vṛdham | sūta | mātā