Sukta 10.61
इयं मे नाभिरिह मे सधस्थमिमे मे देवा अयमस्मि सर्वः । द्विजा अह प्रथमजा ऋतस्येदं धेनुरदुहज्जायमाना ॥
इ॒यं मे॒ नाभि॑रि॒ह मे॑ स॒धस्थ॑मि॒मे मे॑ दे॒वा अ॒यम॑स्मि॒ सर्व॑: । द्वि॒जा अह॑ प्रथम॒जा ऋ॒तस्ये॒दं धे॒नुर॑दुह॒ज्जाय॑माना ॥
iyáṃ me nā́bhir ihá me sadhástham imé me devā́ ayám asmi sárvaḥ | dvijā́ áha prathamajā́ ṛtásyedáṃ dhenúr aduhaj jā́yamānā ||
This is my navel; here is my seat. These are my gods; I am this whole. Twice-born am I, a first-born of the Truth: this Cow, being born, has milked out (for me) the nourishment of illumination.
इ॒यम् । मे॒ । नाभिः॑ । इ॒ह । मे॒ । स॒धऽस्थ॑म् । इ॒मे । मे॒ । दे॒वाः । अ॒यम् । अ॒स्मि॒ । सर्वः॑ । द्वि॒ऽजाः । अह॑ । प्र॒थ॒म॒ऽजाः । ऋ॒तस्य॑ । इ॒दम् । धे॒नुः । अ॒दु॒ह॒त् । जाय॑माना ॥इयम् । मे । नाभिः । इह । मे । सधस्थम् । इमे । मे । देवाः । अयम् । अस्मि । सर्वः । द्विजाः । अह । प्रथमजाः । ऋतस्य । इदम् । धेनुः । अदुहत् । जायमाना ॥iyam | me | nābhiḥ | iha | me | sadha-stham | ime | me | devāḥ | ayam | asmi | sarvaḥ | dvi-jāḥ | aha | prathama-jāḥ | ṛtasya | idam | dhenuḥ | aduhat | jāyamānā