Sukta 10.61
इदमित्था रौद्रं गूर्तवचा ब्रह्म क्रत्वा शच्यामन्तराजौ । क्राणा यदस्य पितरा मंहनेष्ठाः पर्षत्पक्थे अहन्ना सप्त होतॄन् ॥
इ॒दमि॒त्था रौद्रं॑ गू॒र्तव॑चा॒ ब्रह्म॒ क्रत्वा॒ शच्या॑म॒न्तरा॒जौ । क्रा॒णा यद॑स्य पि॒तरा॑ मंहने॒ष्ठाः पर्ष॑त्प॒क्थे अह॒न्ना स॒प्त होतॄ॑न् ॥
idám itthā́ raudráṃ gūrtá-vacā bráhma kratvā́ śácyām antár-ājau | krāṇā́ yád asya pitárā maṃhaneṣṭhā́ḥ párṣat pakthé áhan ā́ saptá hotṝ́n ||
This indeed is that fierce (Rudra-force) inspired Word: a mantra well-uttered, made effective by will and skill in the inner battle. When the two Fathers of this working, most intent on increase, set it in motion, it crosses beyond the hostile field and strikes down the seven offerers (the divided movements), so that the sacrifice may be re-founded in unity.
इ॒दम् । इ॒त्था । रौद्र॑म् । गू॒र्तऽव॑चाः । ब्रह्म॑ । क्रत्वा॑ । शच्या॑म् । अ॒न्तः । आ॒जौ । क्रा॒णा । यत् । अ॒स्य॒ । पि॒तरा॑ । मं॒ह॒ने॒ऽस्थाः । पर्ष॑त् । प॒क्थे । अह॑न् । आ । स॒प्त । होता॑ऋन् ॥इदम् । इत्था । रौद्रम् । गूर्तवचाः । ब्रह्म । क्रत्वा । शच्याम् । अन्तः । आजौ । क्राणा । यत् । अस्य । पितरा । मंहनेस्थाः । पर्षत् । पक्थे । अहन् । आ । सप्त । होताऋन् ॥idam | itthā | raudram | gūrta-vacāḥ | brahma | kratvā | śacyām | antaḥ | ājau | krāṇā | yat | asya | pitarā | maṃhane--sthāḥ | parṣat | pakthe | ahan | ā | sapta | hotāṛn