Sukta 10.61
तद्बन्धुः सूरिर्दिवि ते धियंधा नाभानेदिष्ठो रपति प्र वेनन् । सा नो नाभिः परमास्य वा घाहं तत्पश्चा कतिथश्चिदास ॥
तद्ब॑न्धुः सू॒रिर्दि॒वि ते॑ धियं॒धा नाभा॒नेदि॑ष्ठो रपति॒ प्र वेन॑न् । सा नो॒ नाभि॑: पर॒मास्य वा॑ घा॒हं तत्प॒श्चा क॑ति॒थश्चि॑दास ॥
tádbandhuḥ sūrír diví te dhiyáṃdhā nābhā́nediṣṭho rapati prá vénan | sā́ no nā́bhiḥ paramā́sya vā gha aháṃ tát paścā́ katíthaś cid āsa ||
That is the bond: the illumined seer in heaven sets thy thought in place; Nabhānediṣṭha speaks forth, seeking and desiring. That is our highest navel (center) of this being; and I too was afterwards in some manner a part of that.
तत्ऽब॑न्धुः । सू॒रिः । दि॒वि । ते॒ । धि॒य॒म्ऽधाः । नाभा॒नेदि॑ष्ठः । र॒प॒ति॒ । प्र । वेन॑न् । सा । नः॒ । नाभिः॑ । प॒र॒मा । अ॒स्य । वा॒ । घ॒ । अ॒हम् । तत् । प॒श्चा । क॒ति॒थः । चि॒त् । आ॒स॒ ॥तत्बन्धुः । सूरिः । दिवि । ते । धियम्धाः । नाभानेदिष्ठः । रपति । प्र । वेनन् । सा । नः । नाभिः । परमा । अस्य । वा । घ । अहम् । तत् । पश्चा । कतिथः । चित् । आस ॥tat-bandhuḥ | sūriḥ | divi | te | dhiyam-dhāḥ | nābhānediṣṭhaḥ | rapati | pra | venan | sā | naḥ | nābhiḥ | paramā | asya | vā | gha | aham | tat | paścā | katithaḥ | cit | āsa