Sukta 10.61
स द्विबन्धुर्वैतरणो यष्टा सबर्धुं धेनुमस्वं दुहध्यै । सं यन्मित्रावरुणा वृञ्ज उक्थैर्ज्येष्ठेभिरर्यमणं वरूथैः ॥
स द्वि॒बन्धु॑र्वैतर॒णो यष्टा॑ सब॒र्धुं धे॒नुम॒स्वं॑ दु॒हध्यै॑ । सं यन्मि॒त्रावरु॑णा वृ॒ञ्ज उ॒क्थैर्ज्येष्ठे॑भिरर्य॒मणं॒ वरू॑थैः ॥
sá dvibándhur vaitaraṇó yáṣṭā sabardhúṃ dhenúm asvám duhádhyai | sáṃ yán mitrā́varuṇā vṛ́ñja ukthaíḥ jyéṣṭhebhir aryamáṇaṃ varū́thaiḥ ||
He, the twofold-kin, the one who carries across, is the sacrificer—so that the strong-yielding Cow and the Steed may be milked. And when he unites with Mitra and Varuṇa by the hymns, with the elder powers he wins Aryaman by their protections.
सः । द्वि॒ऽबन्धुः॑ । वै॒त॒र॒णः । यष्टा॑ । स॒बः॒ऽधुम् । धे॒नुम् । अ॒स्व॑म् । दु॒हध्यै॑ । सम् । यत् । मि॒त्रावरु॑णा । वृ॒ञ्जे । उ॒क्थैः । ज्येष्ठे॑भिः । अ॒र्य॒मण॑म् । वरू॑थैः ॥सः । द्विबन्धुः । वैतरणः । यष्टा । सबःधुम् । धेनुम् । अस्वम् । दुहध्यै । सम् । यत् । मित्रावरुणा । वृञ्जे । उक्थैः । ज्येष्ठेभिः । अर्यमणम् । वरूथैः ॥saḥ | dvi-bandhuḥ | vaitaraṇaḥ | yaṣṭā | sabaḥ-dhum | dhenum | asvam | duhadhyai | sam | yat | mitrāvaruṇā | vṛñje | ukthaiḥ | jyeṣṭhebhiḥ | aryamaṇam | varūthaiḥ