Sukta 10.61
अयं स्तुतो राजा वन्दि वेधा अपश्च विप्रस्तरति स्वसेतुः । स कक्षीवन्तं रेजयत्सो अग्निं नेमिं न चक्रमर्वतो रघुद्रु ॥
अ॒यं स्तु॒तो राजा॑ वन्दि वे॒धा अ॒पश्च॒ विप्र॑स्तरति॒ स्वसे॑तुः । स क॒क्षीव॑न्तं रेजय॒त्सो अ॒ग्निं ने॒मिं न च॒क्रमर्व॑तो रघु॒द्रु ॥
ayáṃ stutó rājā vandi vedhā́ ápaś ca vípras tarati svásētuḥ | sá kakṣī́vantaṃ rejayát so agníṃ némim na cakrám árvato raghudrú ||
This King, praised, the ordainer, I salute: the seer crosses the waters by his own bridge. He set Kakṣīvant in vibration; he set Agni in motion—like the felly of a wheel, like the swift course of the steed.
अ॒यम् । स्तु॒तः । राजा॑ । व॒न्दि॒ । वे॒धाः । अ॒पः । च॒ । विप्रः॑ । त॒र॒ति॒ । स्वऽसे॑तुः । सः । क॒क्षीव॑न्तम् । रे॒ज॒य॒त् । सः । अ॒ग्निम् । ने॒मिम् । न । च॒क्रम् । अर्व॑तः । र॒घु॒ऽद्रु ॥अयम् । स्तुतः । राजा । वन्दि । वेधाः । अपः । च । विप्रः । तरति । स्वसेतुः । सः । कक्षीवन्तम् । रेजयत् । सः । अग्निम् । नेमिम् । न । चक्रम् । अर्वतः । रघुद्रु ॥ayam | stutaḥ | rājā | vandi | vedhāḥ | apaḥ | ca | vipraḥ | tarati | sva-setuḥ | saḥ | kakṣīvantam | rejayat | saḥ | agnim | nemim | na | cakram | arvataḥ | raghu-dru