Sukta 10.61
तदिन्न्वस्य परिषद्वानो अग्मन्पुरू सदन्तो नार्षदं बिभित्सन् । वि शुष्णस्य संग्रथितमनर्वा विदत्पुरुप्रजातस्य गुहा यत् ॥
तदिन्न्व॑स्य परि॒षद्वा॑नो अग्मन्पु॒रू सद॑न्तो नार्ष॒दं बि॑भित्सन् । वि शुष्ण॑स्य॒ संग्र॑थितमन॒र्वा वि॒दत्पु॑रुप्रजा॒तस्य॒ गुहा॒ यत् ॥
tád ínnv asya parísadvāno agman purū́ sádanto nārṣadáṃ bibhítsan | ví śúṣṇasya sáṃgrathitam anarvā́ vídat puruprajā́tasya guhā́ yát ||
Then indeed they came, sitting around him in many assemblies, seeking to break open what is not to be violated by mortals. The unerring Force found the tightly-bound holding of Śuṣṇa—of the one who breeds many offsprings—when it lay hidden in the cavern.
तत् । इत् । नु । अ॒स्य॒ । प॒रि॒ऽसद्वा॑नः । अ॒ग्म॒न् । पु॒रु । सद॑न्तः । ना॒र्स॒दम् । बि॒भि॒त्सन् । वि । शुष्ण॑स्य । सम्ऽग्र॑थितम् । अ॒न॒र्वा । वि॒दत् । पु॒रु॒ऽप्र॒जा॒तस्य । गुहा॑ । यत् ॥तत् । इत् । नु । अस्य । परिसद्वानः । अग्मन् । पुरु । सदन्तः । नार्सदम् । बिभित्सन् । वि । शुष्णस्य । सम्ग्रथितम् । अनर्वा । विदत् । पुरुप्रजातस्य । गुहा । यत् ॥tat | it | nu | asya | pari-sadvānaḥ | agman | puru | sadantaḥ | nārsadam | bibh itsan | vi | śuṣṇasya | sam-grathitam | anarvā | vidat | puru-prajātasya | guhā | yat