Sukta 10.61
पश्वा यत्पश्चा वियुता बुधन्तेति ब्रवीति वक्तरी रराणः । वसोर्वसुत्वा कारवोऽनेहा विश्वं विवेष्टि द्रविणमुप क्षु ॥
प॒श्वा यत्प॒श्चा वियु॑ता बु॒धन्तेति॑ ब्रवीति व॒क्तरी॒ ररा॑णः । वसो॑र्वसु॒त्वा का॒रवो॑ऽने॒हा विश्वं॑ विवेष्टि॒ द्रवि॑ण॒मुप॒ क्षु ॥
paśvā́ yát paścā́ víyutā budhántéti bravīti vaktárī rárāṇaḥ | vásor vasutvā́ kārávo 'nehā́ víśvaṃ viveṣṭi dráviṇam úpa kṣú ||
When the separated powers awaken afterwards as herds finding their way, the rejoicing speaker declares it. Here the singers, through the wealth of the Wealth-giver, wrap themselves in the whole abundance and swiftly draw it near.
प॒श्वा । यत् । प॒श्चा । विऽयु॑ता । ब्ध॒न्त॑ । इति॑ । ब्र॒वी॒ति॒ । व॒क्तरि॑ । ररा॑णः । वसोः॑ । व॒सु॒ऽत्वा । का॒रवः॑ । अ॒ने॒हा । विश्व॑म् । वि॒वे॒ष्टि॒ । द्रवि॑णम् । उप॑ । क्षु ॥पश्वा । यत् । पश्चा । वियुता । ब्धन्त । इति । ब्रवीति । वक्तरि । रराणः । वसोः । वसुत्वा । कारवः । अनेहा । विश्वम् । विवेष्टि । द्रविणम् । उप । क्षु ॥paśvā | yat | paścā | vi-yutā | bdhanta | iti | bravīti | vaktari | rarāṇaḥ | vasoḥ | vasu-tvā | kāravaḥ | anehā | viśvam | viveṣṭi | draviṇam | upa | kṣu