Sukta 10.61
मक्षू कनायाः सख्यं नवीयो राधो न रेत ऋतमित्तुरण्यन् । शुचि यत्ते रेक्ण आयजन्त सबर्दुघायाः पय उस्रियायाः ॥
म॒क्षू क॒नाया॑: स॒ख्यं नवी॑यो॒ राधो॒ न रेत॑ ऋ॒तमित्तु॑रण्यन् । शुचि॒ यत्ते॒ रेक्ण॒ आय॑जन्त सब॒र्दुघा॑या॒: पय॑ उ॒स्रिया॑याः ॥
makṣū kanāyā́ḥ sakhyáṃ navī́yo rā́dho na réta ṛtám íd turaṇyán | śúci yát te rékṇa ā́yajanta sabardúghāyā́ḥ páya usríyāyāḥ ||
Swiftly, from the maiden (the fresh-born inspiration), a newer comradeship is formed—an offering like a seed of delight—pressing forward toward the Truth (ṛta) alone. When, O Pure One, they have brought to thee thy treasure as an oblation, then from the ever-yielding Cow of plenitude the milk of the radiant lights flows forth.
म॒क्षु । क॒नायाः॑ । स॒ख्यम् । नवी॑यः । राधः॑ । न । रेतः॑ । ऋ॒तम् । इत् । तु॒र॒ण्य॒न् । शुचि॑ । यत् । ते॒ । रेक्णः॑ । आ । अय॑जन्त । स॒बः॒ऽदुघा॑याः । पयः॑ । उ॒स्रिया॑याः ॥मक्षु । कनायाः । सख्यम् । नवीयः । राधः । न । रेतः । ऋतम् । इत् । तुरण्यन् । शुचि । यत् । ते । रेक्णः । आ । अयजन्त । सबःदुघायाः । पयः । उस्रियायाः ॥makṣu | kanāyāḥ | sakhyam | navīyaḥ | rādhaḥ | na | retaḥ | ṛtam | it | turaṇyan | śuci | yat | te | rekṇaḥ | ā | ayajanta | sabaḥ-dughāyāḥ | payaḥ | usriyāyāḥ