Sukta 10.60
आ जनं त्वेषसंदृशं माहीनानामुपस्तुतम् । अगन्म बिभ्रतो नमः ॥
आ जनं॑ त्वे॒षसं॑दृशं॒ माही॑नाना॒मुप॑स्तुतम् । अग॑न्म॒ बिभ्र॑तो॒ नम॑: ॥
ā́ jánaṃ tveṣá-saṃdṛśaṃ mā́hīnānām úpa-stutam | ágānma bíbhrato námaḥ ||
We have come to the radiant-seeing One, praised by the mighty powers; we come bearing our adoration—an offering of the will turned upward.
आ । जन॑म् । त्वे॒षऽस॑न्दृशम् । माही॑नानाम् । उप॑ऽस्तुतम् । अग॑न्म । बिभ्र॑तः । नमः॑ ॥आ । जनम् । त्वेषसन्दृशम् । माहीनानाम् । उपस्तुतम् । अगन्म । बिभ्रतः । नमः ॥ā | janam | tveṣa-sandṛśam | māhīnānām | upa-stutam | aganma | bibhrataḥ | namaḥ