Sukta 10.59
प्र तार्यायुः प्रतरं नवीय स्थातारेव क्रतुमता रथस्य । अध च्यवान उत्तवीत्यर्थं परातरं सु निॠतिर्जिहीताम् ॥
प्र ता॒र्यायु॑: प्रत॒रं नवी॑य॒ स्थाता॑रेव॒ क्रतु॑मता॒ रथ॑स्य । अध॒ च्यवा॑न॒ उत्त॑वी॒त्यर्थं॑ परात॒रं सु निॠ॑तिर्जिहीताम् ॥
prá tāri ā́yuḥ prá-taraṃ navī́yaḥ sthātā́rāiva krátu-matā ráthasya | ádha cyávāna útta-vītý árthaṃ parā́-taraṃ sú níḥ-ṛ́tiḥ jihītām ||
Carry forward our life into a farther, ever-newer advance, as steady drivers of a chariot by the power of conscious will; then, moving onward, may we win the higher aim, and may Nirṛti—the force of dissolution—withdraw far away.
प्र । ता॒रि॒ । आयुः॑ । प्र॒ऽत॒रम् । नवी॑यः । स्थाता॑राऽइव । क्रतु॑ऽमता । रथ॑स्य । अध॑ । च्यवा॑नः । उत् । त॒वी॒ति॒ । अर्थ॑म् । प॒रा॒ऽत॒रम् । सु । निःऽऋ॑तिः । जि॒ही॒ता॒म् ॥प्र । तारि । आयुः । प्रतरम् । नवीयः । स्थाताराइव । क्रतुमता । रथस्य । अध । च्यवानः । उत् । तवीति । अर्थम् । परातरम् । सु । निःऋतिः । जिहीताम् ॥pra | tāri | āyuḥ | pra-taram | navīyaḥ | sthātārāiva | kratu-matā | rathasya | adha | cyavānaḥ | ut | tavīti | artham | parātaram | su | niḥ-ṛtiḥ | jihītām