Sukta 10.57
पुनर्नः पितरो मनो ददातु दैव्यो जनः । जीवं व्रातं सचेमहि ॥
पुन॑र्नः पितरो॒ मनो॒ ददा॑तु॒ दैव्यो॒ जन॑: । जी॒वं व्रातं॑ सचेमहि ॥
púnar naḥ pitaro mánó dadātu daivyó jánaḥ | jīvám vrā́taṃ sacemahi ||
Let the Fathers give back to us the Mind; let the divine People (the gods) grant it. May we move in harmony with the living host (of our powers).
पुनः॑ । नः॒ । पि॒त॒रः॒ । मनः॑ । ददा॑तु । दैव्यः॑ । जनः॑ । जी॒वम् । व्रात॑म् । स॒चे॒म॒हि॒ ॥पुनः । नः । पितरः । मनः । ददातु । दैव्यः । जनः । जीवम् । व्रातम् । सचेमहि ॥punaḥ | naḥ | pitaraḥ | manaḥ | dadātu | daivyaḥ | janaḥ | jīvam | vrātam | sacemahi