Sukta 10.57
आ त एतु मनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक्च सूर्यं दृशे ॥
आ त॑ एतु॒ मन॒: पुन॒: क्रत्वे॒ दक्षा॑य जी॒वसे॑ । ज्योक्च॒ सूर्यं॑ दृ॒शे ॥
ā́ ta etu mánáḥ púnaḥ krátve dákṣāya jīváse | jyók ca sū́ryaṃ dṛśé ||
May your Mind come back to you—back for will and right discernment, for life, and for the long seeing of the Sun (the inner light).
आ । ते॒ । ए॒तु॒ । मनः॑ । पुन॒रिति॑ । क्रत्वे॑ । दक्षा॑य । जी॒वसे॑ । ज्योक् । च॒ । सूर्य॑म् । दृ॒शे ॥आ । ते । एतु । मनः । पुनरिति । क्रत्वे । दक्षाय । जीवसे । ज्योक् । च । सूर्यम् । दृशे ॥ā | te | etu | manaḥ | punariti | kratve | dakṣāya | jīvase | jyok | ca | sūryam | dṛśe